This page has not been fully proofread.

82
 
श्रीशङ्कराभ्युदये
 
अ. रोकृतामीरकिशोरवत्सका
कृतिर्भवान्वञ्चयितुं विरिश्वतम् ।
श्रुतिप्रतीतां चिदचित्स्वरूपतां
 
स्फुटीकृतामोश पुरा व्यतन्तनीत् ॥ २१ ॥
 
अनादिनाप्यादधतेश सादितां
त्वयाधिरूढस्त्वरित स्तुरङ्गमः ।
 
कलेरपाये कृतघासकौतुको-
इध्यघाससंसक्तमना भविष्यति ॥ २२ ॥
 
इति स्तुतिप्रीणितरङ्गनायको
भजन्क्रमात्पञ्चनदेश्वरादिकान् ।
समाश्रितो द्वारवतीमनुत्तरां
 
स राजगोपालमवन्दत स्तुवन् ॥२३॥
 
अभूषयं सन्ततिमुष्णदीधितेः
 
अहं पुरेत्याहितधीरधीश्वर ।
विभूषयत्यद्य विधोः कुलं भवान्
दृशो: ववचित्रो ममता खलूचिता ॥२४॥
 
क्रमात्पुराजन्मयुगेऽपि किं प्रसूसुकेतुजासूदनवासनावशात् ।
अनीक्षमाणेन घृणादृशाऽप्यहो हता त्वया पूतनिकावधूप ॥
 
सादिता अश्वः रोहिता, घास: तृणं, अघानां आसे निरसने संसक्त-
मनाः कल्किरूपेण ॥ २ ।
 
द्वारवती दक्षिणद्वारकेति प्रसिद्धा मन्नारगुडी नगरी ॥२३॥
 
रामावतारे सूर्यवंसं कृष्णावतारे चन्द्रवंशं च विभूषयति । चन्द्र-
सूर्यो नेत्रे भगवतः । तयोः अन्यतरस्य ममता ममैव वम्शं व्यभूषय-
दित्यभिमानो माभूदिति ॥ २४ ॥