This page has not been fully proofread.

सप्तमः सर्गः ।
 
वरूथिनीपादरजोभिरंबरं वितन्वतो भूमितलं दुरीश्वरान् ।
कुठारतेजोजलदान्प्रकल्पयन्
 
व्यधत्त नक्षत्रपथं भुवं भवान् ॥
 
81
 
क्षणेन शस्त्रक्षतमेदिनीभृति त्वयीश तादृग्भृगुवंशमौक्तिके ।
अभावि धाव्या व्यपराजहंसयाऽप्यहो विराजत्तरराजहंसया ॥
करोदरे यस्य निशांचरप्रभोः गिरीशशैलेन च कन्दुकायितम् ।
शिरांसि तस्यापि भवज्जयश्रियः प्रपेदिरे कन्दुकतां रणाङ्गणे ॥
प्ररूढवेलाटविशिञ्जिनीतते प्रभो पुरा वारिधिकूलकार्मुके ।
निहन्तुकामेन निशाचरप्रभुं नियोजितः सेतुशिलीमुखस्त्वया ॥
 
मुकुन्द हालाहलसादरोऽपि सन्
भवानुपाश्रित्य तु कामपालताम् ।
निनाय धात्रों बत विप्रलम्बतां
 
द्विषद्वधूनामपि कुन्तलावलिम् ॥ २०॥
 
आकाशं सेनापादरजोभिर्भुवं व्यतन्वन् दुरीश्वराः । भवांस्तु कुठार-
तेजोरूपान् जलदान् प्रकल्पयन् वृष्ट्या शान्तरजस्कां भुवं नक्षत्रपथ
आकाशं अकरोत् अर्थात् क्षत्राणां क्षत्रियाणां पन्या एवं न विद्यते यत्न
तथा अकरोत् ॥१६॥
 
धात्री भूमि: व्यपराजहंसाऽपि निःक्षत्रियापि, विराजत्तरराजहंसा
बभूव । राजहंसा मानससरस्था: हंसाः ॥१७॥
 
हाला मदिरा, हलः लाँगलं, तयोः सादरी बलराम:, हालाहले
विषे सादयः शंभुः । कामपालो बलरामः । शंभुरपि कामपाल इति
विरोधा नासः,
बनराम: कुरुषु कोपेन हस्तिनापुरीं विदार्य गंगायां
पातयितुं उदयुंक्तेति भागवते ॥ २०॥
 
11