This page has been fully proofread twice.

॥ श्रीः ॥
 
शिवताण्डवस्तोत्रम्
 
पदयोजनी-संस्कृतव्याख्या-छन्द -
-हिन्दी टीका सहितम्
 
जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ १॥
 
व्याख्या-- जटेति । अयम् (यः शिवः) जटाटवीगलज्जल-
प्रवाहपावितस्थले (जटा एव अटवी वनम् "अटव्यरण्यं विपिनं गहनं
काननं वनम्" इत्यमरः । तस्या गलन् अधस्तात् पतन् यो जलस्य
प्रवाहस्तेन पावितं पवित्रीकृतं स्थलं यस्य तस्मिन्) गले कण्ठे "कण्ठो
गलोऽथ ग्रीवायाम्" इत्यमरः । लम्बिताम् लम्बायमानां भुजङ्गतुङ्ग-
मालिकाम्(भुजङ्गानां सर्पाणां तुङ्गा उन्नता या मालिका ताम्) अवलम्ब्य
धृत्वा डमड्डमड्डमड्डमन्निनादः शब्दस्तद्वान् डमरुर्यस्मिन् तत् प्रचण्ड-
ताण्डवं भयङ्करनृत्यं चकार अकरोत् (सः) शिवो नोऽस्माकं शिवं
(कल्याणं) तनोतु विस्तारयतु ॥१॥