This page has not been fully proofread.

(१६)
 
शिवताण्डवस्तोत्रम्
 
पदयो- अन्तोऽवसानं तं करोति अन्तको यमस्तदन्तकं
यमोऽपरान्मादृशान्नाशयति तन्नाशकमहं सेवे । कथंभूतं तम् । स्मरः
कामस्तस्यान्तं करोति तथाभूतम् । एवं पुरभवयोरन्तं करोति तं पुर
संज्ञकास्त्रिपुरानुयायिनो दैत्यास्तदन्तमित्यर्थः । आत्मस्वरूपप्रकाशत्वेन
संसारनाशकश्च । तदुक्तं गीतायाम् "तेषां सत्त्वप्रयुक्तानां भजतां
प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥" इति । पुनः
कथंभूतम् । यज्ञनाशकम् । 'गजासुरहरः' इत्यमराद्गजारिं नरकासुर-
सूदनम्। पुनः क० अखर्वाः सर्वमङ्गलाः ताः कला विद्याः कदम्ब -
मञ्जर्यः तासां रसप्रवाहस्तस्य माधुरी मधुरता तस्या विजृम्भणा
विस्तारस्तस्य मधुव्रतो भ्रमरः सर्वविद्यारूपसमुदायस्य तत्त्वं जानातीति
भावः । यथोक्तम् । "सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः । सर्व-
शास्त्रमयी गीता सर्वविद्यामयः शिवः" इति ॥ १० ॥
 
व्याख्या- अखर्वेति । अखर्वसर्वमङ्गलाकलाकदम्बमञ्जरीरसप्रवाह
माधुरीविजृम्भणामधुव्रतम्। (अखर्वम् अधिकं सर्वमङ्गलं यासु ताः
कलाश्चतुःषष्टिविद्यास्ता एव कदम्बो वृक्षविशेषस्तस्य या मञ्जर्यस्तासां
यो रसस्तस्य प्रवाहस्य या माधुरी मधुरत्वं तस्या विजृम्भणायाः स्फुटताया
मधुव्रतो भ्रमरस्तम् । चतुःषष्ठिविद्यातत्त्वस्य ज्ञातारम्, यथोक्तम्
"सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः । सर्वशास्त्रमयी गीता सर्वविद्यामयः
शिवः॥'') स्मरान्तकम् (स्मरस्य कामदेवस्य अन्तकस्तम्) पुरान्तकम्
( पुरस्य त्रिपुरासुरनामकस्य अन्तकस्तम्) भवान्तकम् (भवस्य संसारस्य
अन्तकस्तम्) मखान्तकम् (मखस्य दक्षयज्ञस्य अन्तकस्तम्) गजान्तकम्
(गजस्य गजासुरस्य अन्तकस्तम्) अन्धकान्तकम् (अन्धकस्य
अन्धकनामकासुरस्य अन्तकस्तम्) अन्तकान्तकम् (अन्तकस्य कालस्य
अन्तकस्तम्) एवंभूतं सदाशिवं भजे ॥१०॥
 
छंद- अधिक अखिल मंगला कला कदम्ब मंजरिय ।
रसप्रवाह माधुरी पान करन मधुकर जिय ॥
 
--