This page has been fully proofread once and needs a second look.

(त्रीणि लोचनानि नेत्राणि यस्य स तस्मिन्) सदाशिवे मम रतिभूर्यात् ॥७॥
 
छंद - विकट भालवेदिका वह्नि बरि रहि धक धक धक ।
दिय तिहि मध्य प्रचण्ड पञ्चशरकी आहुति भक ॥
गिरिवरनन्दिनि उरज अग्र चित्राम चितेरे ।
सोइ त्रैलोचन रूप माहिं रत हो मन मेरे ॥७॥
 
भाषार्थ- अपने कराल विशाल भाल में धक् धक् धक् शब्द से लकहती
हुई अग्नि में प्रचण्ड कामदेव को भस्म करनेवाले और हिमालय की कन्या
पार्वती के कुचों के अग्रभागों में रंग से चित्रकारी करने में एक चतुर चितेरे,
ऐसे तीन नेत्रवाले शंकर में मेरी प्रीति हो ॥७॥
 
नवीनमेघमण्डलीनिरुद्धदुर्धरस्फुरत्-
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः ।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसुन्दरः
कलानिधानबन्धुरः श्रियं जगद्धुरन्धरः ॥८॥
 
पदयो- नवीनेति । जगतस्त्रिलोक्या: धूः भारः तां धरतीति
जगद्धुरन्धरः अस्माकं श्रियं तनोतु । कथम्भूतः ? कलानिधीयन्ते
स्थाप्यन्ते यत्रेति कलानिधानश्चन्द्रमास्तेन बन्धुरः सुन्दरः इत्यर्थः । पुनः
कथम्भूतः? कृत्तिसुन्दरः । कृत्तिशब्देन मृगचर्म उच्यते । कृत्त्या सुन्दरः
शोभां प्राप्त इत्यर्थः । पुन कथम्भूतः ? निलिम्पनिर्झरी देवनदी, धरतीति
धरस्तस्या धर इति कर्मणः शेषत्वविवक्षायां पचाद्यच् । पुनः
कथम्भूतः ? नवीना चासौ मेघमण्डली तया निरूद्धं नाम निबद्धं दुःखेन
धर्तुं शक्यमिति दुर्द्धरं स्फुरत् भासमानमेवम्भूतं यत्कुहूनिशीथिनी-
सम्बन्धि तमोऽन्धकारस्तस्य प्रबन्धो नैरन्तर्यं तेन बद्धा कन्धरा येन सः
एवंभूत इति भावः ॥८॥
 
व्याख्या- नवीनेति । नवीनमेघमण्डलीनिरुद्धदुर्धरस्फुरत्कुहू-
निशीथिनीतमः : प्रबन्धबद्धकन्धरः (मेघानां मण्डली मेघमण्डली नवीना