This page has been fully proofread once and needs a second look.

ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गया
निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखरेखया विराजमानशेखरं
महः कपालि सम्पदे सरिज्जटालमस्तु नः ॥५॥
 
पदयो-- कपालमस्यास्तीति कपालि महस्तेजो नोऽस्माकं सम्पदे
नाम मोक्षायास्तु । कथम्भूतं कपालि महः ? प्रसक्ता जटा जटालं
तस्मिन्सरित् यस्य तत्सरिज्जटालम् पुनः किम्भूतं तत् ? नमन्तो
निलिम्पनायका यस्मिन् तत् । पुनः सुधामयानि मयूखानि यस्य स
सुधामयूखश्चन्द्रस्तस्य रेखा तया विराजमानं शेखरं शिरोभूषणं यस्य
तत्। पुनः कथम्भूतम्? ललाटमेव चत्वरं ललाटचत्वरं तस्मिन्
ज्वलंश्चासौ धनञ्जयोऽग्निस्तस्य स्फुल्लिङ्गा कणा तया निपीतो नामाति-
शयेन दग्धः पञ्चसायकः कामदेवो येन तत् ॥५॥
 
व्याख्या-- ललाटेति। ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गया
(ललाटमेव चत्वरं तस्मिन् यो धनञ्जयोऽग्निस्तस्य स्फुलिया कणिकया)
निपीतपञ्चसायकम् (निपीतो निःशेषेण पीतो नाशित इति यावत् ।
पञ्चसायकः कामदेवो येन तत्) नमन्निलिम्पनायकम् (नमन् निलिम्पानां
देवानां नायक इन्द्रो यस्मिन् तत्) सुधामयूखरेखया (सुधामयूखस्य
चन्द्रस्य या रेखा तया) विराजमानशेखरम् (विराजमानं शोभमानं शेखरं
यस्य तत् ) कपालि (कपालमस्यास्तीति तत्) सरिज्जटालम् (सरिता
गङ्गाया युक्तो या जटा साऽस्यास्तीति तत्) महस्तेजोरूपं (सदाशिव:)
नोऽस्माकं सम्पदे धर्मार्थादिरूपसम्पत्तये अस्तु भवतु ॥५॥
 
छंद-- भाल अजिरकी अग्नि कणतु किय भस्म पञ्चशर ।
देवेश्वर जिहि नमत सुधाकर रेख सुशेखर ॥
करसौं कलित कपाल लसैं सुरसरित जटान्तर ।
देहु सकल संपदा सोई हमको जु निरन्तर ॥५॥