This page has been fully proofread once and needs a second look.

पदयो-- श्रीकृष्णभूतानां प्राणिनां स्थावरजङ्गमानां भर्ता पालकः ।
बिभर्तेस्तृन् । तथा चोक्तं गीतायाम्-"सुतपाम्यहमावर्षं निगृह्णाम्यु-
त्सृजामि च । अमृतश्चैव मृत्युश्च सदसच्चाहमर्जुन" इति । तस्मिन्मम
मनोऽद्भुतं विनोदं क्रीडां बिभर्तु धारयतु । कथम्भूते? भूतभर्तरि मदेनान्धो
मदान्धः स चासौ सिन्धुरासुरः मदान्धसिन्धुरासुरस्तस्य त्वगेवोत्तरीयं
वस्त्रं तेन मेदुरः स्निग्धस्तस्मिन् । पुनर्जटासु ये भुजङ्गास्तेषां पिङ्गलाश्च
ते स्फुरन्तः फणामणयः जटाभुजङ्गपिङ्गलस्फुरत्फणामणयस्तेषां प्रभा-
स्तासां कदम्बः स एव कुङ्कुमद्रवः तेन प्रलिप्तानि दिग्वधूनां मुखानि येन
तस्मिन् ॥४॥
 
व्याख्या-- जटेति। जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभाकदम्ब -
कुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे(जटानां भुजङ्गाः सर्पास्तेषां पिङ्गलाः पीतवर्णाश्च
स्फुरन्त्यः विकासमानाश्च या फणास्तासां ये मणयस्तेषां प्रभाः तासां
कदम्बः समूहः स एव कुङ्कुमद्रवस्तेन प्रलिप्तानि दिश एव वध्वः
स्त्रियस्तासां मुखानि येन स तस्मिन्) मदान्धसिन्धुरासुरत्वगुत्तरीयमेदुरे
(मदेन अन्धो यः सिन्धुरासुरो गजासुरस्तस्य त्वक्चर्म एव उत्तरीय-
मुपरिवस्त्रं तेन मेदुरः सुन्दरस्तस्मिन्) भूतभर्त्तरि (भूतानां स्थावरजङ्गमानां
भर्ता पालकस्तस्मिन्) मम मनोऽद्भुतमाश्चर्यरूपं विनोदं क्रीडाविशेषं बिभर्तु
धारयतु ॥४॥
 
छंद -- जटनु भुजङ्गम जटित जासु मणि पीत प्रभागनु ।
सोइ कुंकुमका कीच भली दिस तियमुख पह मनु ॥
सोहत चर्म मदान्ध गजासुरकी जिनके तनु ।
भूतनाथमहँ अद्भुत आनँद लहु मेरो मनु ॥४॥
 
भाषार्थ-- जटाओं में शोभायमान सर्पों के पीले और चमकते हुए फणों
की मणिरूपी कुंकुम से दिशारूपी स्त्रियों के मुखों को लिप्त करनेवाले और मद
से अन्धे गजासुर के चर्म के ओढने से शोभित ऐसे प्राणिमात्र के रक्षक
सदाशिवजी में मेरा मन विचित्र आनन्द को प्राप्त हो ॥४॥