2026-04-23 06:06:57 by ambuda-bot
This page has not been fully proofread.
भवन्मयस्वात्मनिवासलब्ध-
सम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः ।
न भोजनाच्छादनमप्यजत्र-
मपेक्षते यस्तमहं नतोऽस्मि ॥४॥
सदा भवद्देहनिवासस्वस्थो-
ऽप्यन्तः परं दह्यत एष लोकः ।
तवेच्छया तत्कुरु मे यथा
त्वदर्चनानन्दमयो भवेयम् ॥५॥
स्वरसोदितयुष्मदङ्घ्रिपद्म-
द्वयपूजामृतपानसक्तचित्तः ।
सकलार्थचयेष्वहं भवेयम्
सुखसंस्पर्शनमात्रलोकयात्रः ॥ ६ ॥
सकलव्यवहारगोचरे
स्फुटमन्तः स्फुरति त्वयि प्रभो।
+90 ->
सम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः ।
न भोजनाच्छादनमप्यजत्र-
मपेक्षते यस्तमहं नतोऽस्मि ॥४॥
सदा भवद्देहनिवासस्वस्थो-
ऽप्यन्तः परं दह्यत एष लोकः ।
तवेच्छया तत्कुरु मे यथा
त्वदर्चनानन्दमयो भवेयम् ॥५॥
स्वरसोदितयुष्मदङ्घ्रिपद्म-
द्वयपूजामृतपानसक्तचित्तः ।
सकलार्थचयेष्वहं भवेयम्
सुखसंस्पर्शनमात्रलोकयात्रः ॥ ६ ॥
सकलव्यवहारगोचरे
स्फुटमन्तः स्फुरति त्वयि प्रभो।
+90 ->