Proofing

This page has not been fully proofread.

अथ आविष्कारनाम अष्टादशं स्तोत्रं
 
जगतोऽन्तरतो भवन्तमाप्त्वा
पुनरेतद्भवतोऽन्तराल्लभन्ते ।
जगदीश तवैव भक्तिभाजो
 
न हि तेषामिह दूरतोऽस्ति किञ्चित् ॥१॥
 
क्वचिदेव भवान् क्वचिद्भवानी
सकलार्थक्रमगर्भिणी प्रधाना ।
परमार्थपदे तु नैव देव्या
 
भवतो नापि जगत्त्रयस्य भेदः ॥ २ ॥
 
नो जानते सुभगमप्यवलेपवन्तो
 
लोकाः प्रयत्नसुभगा निखिला हि भावाः ।
चेतः पुनर्यदिदमुद्यतमप्यवैति
 
नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥३॥
 
✦ 89-