2026-04-23 06:06:57 by ambuda-bot
This page has not been fully proofread.
अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो ।
अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते ॥४४॥
एषा पेशलिमा नाथ तवैव किल दृश्यते ।
विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यसे ॥ ४५ ॥
सदा मूर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः।
उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥ ४६ ॥
कामक्रोधाभिमानैस्त्वामुपहारीकृतैः सदा ।
येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽसि तत्त्वतः ॥४७
जयत्येष भवद्भक्तिभाजां पूजाविधिः परः ।
यस्तृणैः क्रियमाणोऽपि रत्नैरेवोपकल्पते ॥ ४८ ॥
✦ 88+
1
Dar