2026-04-23 06:06:57 by ambuda-bot
This page has not been fully proofread.
भक्तानामक्षविक्षेपोऽप्येष संसारसंमतः ।
उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम् ॥३८
भक्ति क्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि।
चित्रं दैन्याय नोयावद्दीनतायाः परं फलम्॥३९॥
उपचारपदं पूजा केषांचित्त्वत्पदाप्तये ।
भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु सः ॥ ४० ॥
अप्यसम्बद्धरूपार्चा भक्तयुन्मादनिरर्गलैः ।
वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥ ४१ ॥
स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् ।
शम्भो त्वमेव ललितः पूजानां किल भाजनम्॥४२॥
परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च ।
भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥ ४३ ॥
+ 87 ->