2026-04-23 06:06:56 by ambuda-bot
This page has not been fully proofread.
पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम्।
स्वात्मन्येव परे भक्ता मान्ति हर्षेण न क्वचित् ॥ ३२ ॥
राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे।
सुधासवेन सकला जगती संविभज्यते ॥३३॥
पूजामृतापानमयो येषां भोगः प्रतिक्षणम् ।
किं देवा उत मुक्तास्ते किं वा केऽप्येव ते जनाः ॥३४॥
पूजोपकरणीभूतविश्वावेशेन गौरवम् ।
अहो किमपि भक्तानां किमप्येव च लाघवम्॥३५॥
पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः ।
भक्तानां क्षीरजलधिक्षोभादिव दिवौकसाम् ॥३६
पूजां केचन मन्यन्ते धेनुं कामदुघामिव ।
सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे ॥ ३७ ॥
✦ 86 ->
4.