Proofing

This page has not been fully proofread.

अन्तरुल्लसदच्छाच्छ भक्तिपीयूषपोषितम् ।
भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ २६ ॥
 
त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो ।
भूयासं जगतामीश एकः स्वच्छन्दचेष्टितः ॥ २७ ॥
 
त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो ।
जायते शीतलस्वादु भवत्पूजामहासरः ॥ २८ ॥
 
यथा त्वमेव जगतः पूजासम्भोगभाजनम् ।
तथेश भक्तिमानेव पूजासम्भोगभाजनम्॥२९॥
 
कोऽप्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः ।
षटत्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् ॥३०॥
 
नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा ।
पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥३१॥
 
- 85-