Proofing

This page has not been fully proofread.

दृष्टार्थ एव भक्तानां भवत्पूजामहोद्यमः ।
तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥ २० ॥
 
यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः।
तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः ॥ २१ ॥
 
भक्तानां विषयान्वेषाभासायासाद्विनैव सा ।
अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते ॥ २२ ॥
 
न प्राप्यमस्ति भक्तानां नाप्येषामस्ति दुर्लभम् ।
केवलं विचरन्त्येते भवत्पूजामदोन्मदाः ॥२३॥
 
अहो भक्ति भरोदारचेतसां वरद त्वयि ।
 
श्लाघ्यः पूजाविधिः कोऽपि यो न याञ्चाकलंकितः ॥ २४ ॥
 
का न शोभा न को ह्लादः का समृद्धिर्न वापरा ।
को वा न मोक्षः कोऽप्येष महादेवो यदर्च्यते ॥ २५ ॥
 
+84 ->