Proofing

This page has not been fully proofread.

जगद्विलयसञ्जातसुधैकरसनिर्भरे।
 
त्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा ॥ १४ ॥
 
अशेषवासनाग्रन्थिविच्छेदसरलं सदा ।
मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव ॥ १५ ॥
 
अधिष्ठायैव विषयानिमाः करणवृत्तयः ।
भक्तानां प्रेषयन्ति त्वत्पूजार्थममृतासवम्॥१६॥
 
भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम्।
कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात्॥१७॥
 
सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः।
त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्पताम् ॥ १८ ॥
 
अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम् ।
भवत्पूजामृतापानमदास्वादमहामुदम् ॥ १९ ॥
 
83+>