Proofing

This page has not been fully proofread.

जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् ।
भक्तानां भवदभ्यर्चामहो यावद्यदा तदा ॥८ ॥
 
भवत्पूजासुधास्वादसम्भोगसुखिनः सदा ।
इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः ॥ ९ ॥
 
जगत्क्षोभैकजनके भवत्पूजामहोत्सवे ।
 
यत्प्राप्यं प्राप्यते किंचिद्भक्ता एव विदन्ति तत् ॥ १० ॥
 
त्वद्धानि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः ।
कायवाक्चित्तचेष्टाद्यैरर्चये त्वां सदा विभो ॥ ११ ॥
 
भवत्पूजामयासङ्गसम्भोगसुखिनो मम ।
 
प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये ॥ १२ ॥
 
भवत्पूजामृतरसा भोगलम्पटता विभो ।
विवर्धतामनुदिनं सदा च फलतां मम ॥१३॥
 
✦ 82 ->