2026-04-23 06:06:55 by ambuda-bot
This page has not been fully proofread.
व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः ।
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥ २ ॥
सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम् ।
त्वामर्चयन्त्यविश्रान्तं ये ममैतेऽधिदेवताः॥३॥
ध्यानायासतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः ।
पूजाविधिरिति ख्यातो भक्तानां स सदास्तु मे ॥४॥
भक्तानां समतासारविषुवत्समयः सदा ।
त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम् ॥५॥
यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो ।
पूजात्मासौ क्रिया तस्याः कर्तारस्त्वज्जुषः परम् ॥६॥
ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः ।
येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः ॥७॥
+81 +>