Proofing

This page has not been fully proofread.

प्रलयोत्सवसरभसया
दृढमुपगूढं शिवं वन्दे ॥२९॥
 
परमेश्वरता जयत्यपूर्वा
 
तव विश्वेश यदीशितव्यशून्या ।
 
अपरापि तथैव ते ययेदं
 
जगदाभाति यथा तथा न भाति ॥ ३० ॥
 
अथ दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम्
 
अहो कोऽपि जयत्येष स्वादुः पूजामहोत्सवः ।
यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम् ॥ १ ॥
 
- 80 ->