2026-04-23 06:06:54 by ambuda-bot
This page has not been fully proofread.
गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे ।
त्वयि शम्भो शिवे देव भक्तिर्नाम किमप्यहो ॥२४॥
भक्तिभक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा ।
तारं विरौमि यत्तीव्रा भक्तिर्मेऽस्तु परं त्वयि ॥ २५ ॥
यतोऽसि सर्वशोभानां प्रसवावनिरीश तत् ।
त्वयि लग्नमनर्घं स्याद्रत्नं वा यदि वा तृणम् ॥२६॥
आवेदकादा च वेद्याद्येषां संवेदनाध्वनि ।
भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः ॥२७॥
संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे ।
स्वामिन्परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः॥२८॥
पानाशनप्रसाधन-
सम्भुक्तसमस्तविश्वया शिवया ।
✦ 79 ->