Proofing

This page has not been fully proofread.

कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत्।
भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी ॥१८॥
 
मुक्तिसंज्ञा विपक्काया भक्तेरेव त्वयि प्रभो ।
तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः ॥ १९ ॥
 
दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः ।
त्वत्पराची विभो मा भूदपि सौख्यपरम्परा ॥२०॥
 
त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् ।
तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत् ॥ २१ ॥
 
साकारो वा निराकारो वान्तर्वा बहिरेव वा ।
भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः ॥ २२ ॥
 
अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति।
हर्षप्रकाशनफलमन्यदेव जगत्स्थितम् ॥ २३ ॥
 
+ 78 ->