Proofing

This page has not been fully proofread.

यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे ।
निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम् ॥१२॥
 
- तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम् ।
विलुप्यास्वादयन्त्येके वपुरच्छं सुधामयम् ॥१३॥
 
भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता ।
निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे ॥१४॥
 
मानावमानरागादिनिष्पाकविमलं मनः ।
यस्यासौ भक्तिमांल्लोकतुल्यशीलः कथं भवेत् ॥१५॥
 
रागद्वेषान्धकारोऽपि येषां भक्तित्विषा जितः ।
तेषां महीयसामग्रे कतमे ज्ञानशालिनः॥१६॥
 
यस्य भक्तिसुधास्नानपानादिविधिसाधनम्।
तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका ॥१७॥
 
+ 77 ->