Proofing

This page has not been fully proofread.

सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे ।
केवलं स तथा कोऽपि भक्त्याशोऽस्तु मे सदा॥६॥
 
भक्ति क्षीवोsपि कुप्येयं भवायानुशयीय च ।
तथा हसेयं रुद्यां च रटेयं च शिवेत्यलम् ॥७॥
 
विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि ।
गम्भीरोऽपि विचित्तोऽपि भवेयं भक्तितः प्रभो ॥८ ॥
 
भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः ।
चिद्धर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम् ॥ ९ ॥
 
भक्ता निन्दानुकारेऽपि तवामृतकणैरिव ।
हृष्यन्त्येवान्तराविद्धास्तीक्ष्णरोमाञ्चसूचिभिः ॥ १० ॥
 
दुःखापि वेदना भक्तिमतां भोगाय कल्पते ।
येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्रिकामयी ॥ ११॥
 
+ 76 ->