Proofing

This page has not been fully proofread.

i
 
अथ पाशानुद्भेदनाम षोडशं स्तोत्रम्
 
न किञ्चिदेव लोकानां भवदावरणं प्रति ।
न किञ्चिदेव भक्तानां भवदावरणं प्रति ॥ १ ॥
 
अप्युपायक्रमप्राप्यः सङ्कलोऽपि विशेषणैः ।
भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते ॥ २ ॥
 
जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च ।
भवद्भक्तिसुधापानमत्ताः केऽप्येव ये प्रभो ॥ ३ ॥
 
शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु ।
स्वादिष्टपरकाष्ठाप्तत्वद्भक्तिरसनिर्भरः ॥४॥
 
यथैवाज्ञातपूर्वोऽयं भवद्भक्तिरसो मम ।
घटितस्तद्वदीशान स एव परिपुष्यतु ॥ ५ ॥
 
✦ 75 +>