Proofing

This page has not been fully proofread.

सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा ।
चेतसैव विभोऽर्चन्ति केचित्त्वामभितः स्थिताः ॥ ९ ॥
 
रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो ।
संसारदुर्गतिहरं भवद्भक्तिमहाधनम्॥१०॥
 
नाथ ते भक्तजनता यद्यपि त्वयि रागिणी ।
तथापीय विहायास्यास्तुष्टास्तु स्वामिनी सदा ॥ ११ ॥
 
भवद्भावः पुरो भावी प्राप्ते त्वद्धक्तिसम्भवे ।
लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता ॥ १२ ॥
 
किमियं न सिद्धिरतुला
 
किं वा मुख्यं न सौख्यमास्त्रवति ।
 
भक्तिरुपचीयमाना
 
येयं शम्भोः सदातनी भवति ॥ १३ ॥
 
- 72 ->