Proofing

This page has not been fully proofread.

रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी ।
भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते ॥ ३ ॥
 
न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः ।
भवेयमपि तद्रिक्त भक्त्यासवरसोन्मदः॥४॥
 
बाह्यं हृदय एवान्तरभिहृत्यैव योऽर्चति ।
त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम् ॥५ ॥
 
धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा ।
सुखदुःखात्मनोर्भक्ताः किमप्यास्वादयन्त्यहो ॥ ६ ॥
 
चराचरपितः स्वामिन् अप्यन्धा अपि कुष्ठिनः ।
शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥७॥
 
शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो ।
भवद्भक्तिमहोष्माणो राजराजमपीशते ॥८॥
 
+ 71 ->