2026-04-23 06:06:52 by ambuda-bot
This page has not been fully proofread.
do
अथ जयस्तोत्रनाम चतुर्दशं स्तोत्रम्
ॐ जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः ।
जयोद्घोषणपीयूषरसमास्वादये क्षणम् ॥१॥
जयैकरुद्रैकशिव महादेव महेश्वर ।
पार्वतीप्रणयिञ्शर्व सर्वगीर्वाणपूर्वज ॥ २ ॥
जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन ।
जय पीतार्तलोकार्तिकालकूटाङ्ककन्धर॥३॥
जय मूर्तत्रिशक्तयात्मशितशूलोल्लसत्कर।
जयेच्छामात्रसिद्धार्थपूजार्हचरणाम्बुज ॥४॥
जय शोभाशतस्यन्दिलोकोत्तरवपुर्धर ।
जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥५ ॥
+66-
अथ जयस्तोत्रनाम चतुर्दशं स्तोत्रम्
ॐ जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः ।
जयोद्घोषणपीयूषरसमास्वादये क्षणम् ॥१॥
जयैकरुद्रैकशिव महादेव महेश्वर ।
पार्वतीप्रणयिञ्शर्व सर्वगीर्वाणपूर्वज ॥ २ ॥
जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन ।
जय पीतार्तलोकार्तिकालकूटाङ्ककन्धर॥३॥
जय मूर्तत्रिशक्तयात्मशितशूलोल्लसत्कर।
जयेच्छामात्रसिद्धार्थपूजार्हचरणाम्बुज ॥४॥
जय शोभाशतस्यन्दिलोकोत्तरवपुर्धर ।
जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥५ ॥
+66-