2026-04-23 06:06:51 by ambuda-bot
This page has not been fully proofread.
तां समर्पयति, तेन ते वपुः
पूजयन्त्यचल भक्तिशालिनः ॥ १४ ॥
स्फारयस्यखिलमात्मना स्फुरन्
विश्वमामृशसि रूपमामृशन् ।
यत्स्वयं निजरसेन घूर्णसे
तत्समुल्लसति भावमण्डलम् ॥१५॥
योऽविकल्पमिदमर्थमण्डलं
पश्यतीश निखिलं भवद्वपुः ।
स्वात्मपक्षपरिपूरिते जग-
त्यस्य नित्यसुखिनः कुतो भयम् ॥१६॥
कण्ठकोणविनिविष्टमीश ते
कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपु-
र्भेदवृत्ति यदि रोचते न मे ॥१७॥
✦ 64-
पूजयन्त्यचल भक्तिशालिनः ॥ १४ ॥
स्फारयस्यखिलमात्मना स्फुरन्
विश्वमामृशसि रूपमामृशन् ।
यत्स्वयं निजरसेन घूर्णसे
तत्समुल्लसति भावमण्डलम् ॥१५॥
योऽविकल्पमिदमर्थमण्डलं
पश्यतीश निखिलं भवद्वपुः ।
स्वात्मपक्षपरिपूरिते जग-
त्यस्य नित्यसुखिनः कुतो भयम् ॥१६॥
कण्ठकोणविनिविष्टमीश ते
कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपु-
र्भेदवृत्ति यदि रोचते न मे ॥१७॥
✦ 64-