2026-04-23 06:06:51 by ambuda-bot
This page has not been fully proofread.
शक्तिपातसमये विचारणं
प्राप्तमीश न करोषि कर्हिचित् ।
अद्य मां प्रति किमागतं यतः
स्वप्रकाशनविधौ विलम्बसे ॥ ११ ॥
तत्र तत्र विषये बहिर्विभा-
त्यन्तरे च परमेश्वरीयुतम् ।
त्वां जगत्त्रितयनिर्भरं सदा
लोकयेय निजपाणिपूजितम्॥१२॥
स्वामिसौधमभिसन्धिमात्रतो
निर्विबन्धमधिरुह्य सर्वदा ।
स्यां प्रसादपरमामृतासवा-
पानकेलिपरिलब्धनिर्वृतिः ॥१३॥
यत्समस्तसुभगार्थवस्तुषु
स्पर्शमात्रविधिना चमत्कृतिम् ।
✦ 63
प्राप्तमीश न करोषि कर्हिचित् ।
अद्य मां प्रति किमागतं यतः
स्वप्रकाशनविधौ विलम्बसे ॥ ११ ॥
तत्र तत्र विषये बहिर्विभा-
त्यन्तरे च परमेश्वरीयुतम् ।
त्वां जगत्त्रितयनिर्भरं सदा
लोकयेय निजपाणिपूजितम्॥१२॥
स्वामिसौधमभिसन्धिमात्रतो
निर्विबन्धमधिरुह्य सर्वदा ।
स्यां प्रसादपरमामृतासवा-
पानकेलिपरिलब्धनिर्वृतिः ॥१३॥
यत्समस्तसुभगार्थवस्तुषु
स्पर्शमात्रविधिना चमत्कृतिम् ।
✦ 63