Proofing

This page has not been fully proofread.

Tille named by the
Achary
 
अथ संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम्
 
संग्रहेण सुखदुःखलक्षणं
 
मां प्रति स्थितमिदं शृणु प्रभो ।
सौख्यमेष भवता समागमः
स्वामिना विरह एव दुःखिता ॥ १ ॥
 
अन्तरप्यतितरामणीयसी
या त्वदप्रथनकालिकास्ति मे ।
तामपीश परिमृज्य सर्वतः
 
स्वं स्वरूपममलं प्रकाशय ॥२॥
 
तावके वपुषि विश्वनिर्भर
चित्सुधारसमये निरत्यये ।
 
तिष्ठतः सततमर्चतः प्रभुं
जीवितं मृतमथान्यदस्तु मे ॥ ३ ॥
 
- 60 ->