2026-04-23 06:06:50 by ambuda-bot
This page has not been fully proofread.
तदनुष्ठितशक्तिरप्यतस्त-
द्भवदर्चाव्यसनं च निर्विरामम् ॥२३॥
व्यवहारपदेऽपि सर्वदा
प्रतिभात्वर्थकलाप एष माम् ।
भवतोऽवयवो यथा न तु
स्वत एवादरणीयतां गतः ॥२४॥
मनसि स्वरसेन यत्र तत्र
प्रचरत्यप्यहमस्य गोचरेषु ।
प्रसृतोऽप्यविलोल एव युष्म-
त्परिचर्याचतुरः सदा भवेयम् ॥ २५ ॥
भगवन्भवदिच्छ्यैव दास-
स्तव जातोऽस्मि परस्य नात्र शक्तिः ।
कथमेष तथापि वक्त्रबिम्बं
तव पश्यामि न जातु चित्रमेतत् ॥ २६ ॥
✦ 58 +
द्भवदर्चाव्यसनं च निर्विरामम् ॥२३॥
व्यवहारपदेऽपि सर्वदा
प्रतिभात्वर्थकलाप एष माम् ।
भवतोऽवयवो यथा न तु
स्वत एवादरणीयतां गतः ॥२४॥
मनसि स्वरसेन यत्र तत्र
प्रचरत्यप्यहमस्य गोचरेषु ।
प्रसृतोऽप्यविलोल एव युष्म-
त्परिचर्याचतुरः सदा भवेयम् ॥ २५ ॥
भगवन्भवदिच्छ्यैव दास-
स्तव जातोऽस्मि परस्य नात्र शक्तिः ।
कथमेष तथापि वक्त्रबिम्बं
तव पश्यामि न जातु चित्रमेतत् ॥ २६ ॥
✦ 58 +