2026-04-23 06:06:50 by ambuda-bot
This page has not been fully proofread.
भवदङ्गगतं तमेव कस्मा-
न्न मनः पर्यटतीष्टमर्थमर्थम् ।
प्रकृतिक्षतिरस्ति नो तथास्य
मम चेच्छा परिपूर्यते परैव ॥ २० ॥
शतशः किल ते तवानुभावा-
द्भगवन्केऽप्यमुनैव चक्षुषा ये ।
अपि हालिकचेष्टया चरन्तः
परिपश्यन्ति भवद्वपुः सदाग्रे ॥२१॥
न सा मतिरुदेति या न भवति त्वदिच्छामयी
सदा शुभमथैतरद्भगवतैवमाचर्यते ।
अतोऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन्
स्थितोऽनिशमबाधितत्वदमलाङ्घ्रिपूजोत्सवः॥२२॥
भवदीयगभीरभाषितेषु
* प्रतिभा सम्यगुदेतु मे पुरोऽतः ।
+57 +>
न्न मनः पर्यटतीष्टमर्थमर्थम् ।
प्रकृतिक्षतिरस्ति नो तथास्य
मम चेच्छा परिपूर्यते परैव ॥ २० ॥
शतशः किल ते तवानुभावा-
द्भगवन्केऽप्यमुनैव चक्षुषा ये ।
अपि हालिकचेष्टया चरन्तः
परिपश्यन्ति भवद्वपुः सदाग्रे ॥२१॥
न सा मतिरुदेति या न भवति त्वदिच्छामयी
सदा शुभमथैतरद्भगवतैवमाचर्यते ।
अतोऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन्
स्थितोऽनिशमबाधितत्वदमलाङ्घ्रिपूजोत्सवः॥२२॥
भवदीयगभीरभाषितेषु
* प्रतिभा सम्यगुदेतु मे पुरोऽतः ।
+57 +>