2026-04-23 06:06:50 by ambuda-bot
This page has not been fully proofread.
क्षणमात्रकमिह न भवसि
कस्य न जन्तोर्दृशोर्विषयः ॥ १६ ॥
ऐक्यसंविदमृताच्छधारया
सन्ततप्रसृतया सदा विभो ।
प्लावनात् परमभेदमानयं-
स्त्वां निजं च वपुराप्नुयां मुदम् ॥१७॥
अहमित्यमुतोऽवरुद्ध लोका-
द्भवदीयात्प्रतिपत्तिसारतो मे ।
अणुमात्रकमेव विश्वनिष्ठं
घटतां येन भवेयमर्चिता ते ॥ १८ ॥
अपरिमितरूपमहं
तं तं भावं प्रतिक्षणं पश्यन् ।
त्वामेव विश्वरूपं
निजनाथं साधु पश्येयम्॥१९॥
✦ 56 ✦
कस्य न जन्तोर्दृशोर्विषयः ॥ १६ ॥
ऐक्यसंविदमृताच्छधारया
सन्ततप्रसृतया सदा विभो ।
प्लावनात् परमभेदमानयं-
स्त्वां निजं च वपुराप्नुयां मुदम् ॥१७॥
अहमित्यमुतोऽवरुद्ध लोका-
द्भवदीयात्प्रतिपत्तिसारतो मे ।
अणुमात्रकमेव विश्वनिष्ठं
घटतां येन भवेयमर्चिता ते ॥ १८ ॥
अपरिमितरूपमहं
तं तं भावं प्रतिक्षणं पश्यन् ।
त्वामेव विश्वरूपं
निजनाथं साधु पश्येयम्॥१९॥
✦ 56 ✦