Proofing

This page has not been fully proofread.

त्वया निराकृतं सर्वं हेयमेतत्तदेव तु ।
त्वन्मयं समुपादेयमित्ययं सारसंग्रहः ॥ १२ ॥
 
भवतोऽन्तरचारि - भावजातं
प्रभुवन्मुख्यतयैव पूजितं तत् ।
भवतो बहिरप्यभावमात्रा
कथमीशान भवेत्समर्च्यते वा ॥ १३ ॥
 
निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिशम् ।
क्षोभेऽप्यध्यक्षमीक्षेयं त्र्यक्ष त्वामेव सर्वतः ॥ १४ ॥
 
प्रकटय निजधाम देव यस्मि -
स्त्वमसि सदा परमेश्वरीसमेतः ।
 
* प्रभुचरणरजः समानकक्ष्याः
किमविश्वासपदं भवन्ति भृत्याः ॥ १५ ॥
 
दर्शनपथमुपयातोऽप्यपसरसि
 
● कुतो ममेश भृत्यस्य ।
 
+55 +