2026-04-23 06:06:49 by ambuda-bot
This page has not been fully proofread.
भगवन्भवदीयपादयो-
निवसन्नन्तर एव निर्भयः ।
भवभूमिषु तासु तास्वहं
प्रभुमर्चेयमनर्गलक्रियः ॥८ ॥
भवदङ्घ्रिसरोरुहोदरे
परिलीनो गलितापरैषणः ।
अतिमात्रमधूपयोगतः
परितृप्तो विचरेयमिच्छ्या ॥९॥
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः ।
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥१०॥
भगवन्नितरानपेक्षिणा
नितरामेकरसेन चेतसा ।
सुलभं सकलोपशायिनं
प्रभुमातृप्ति पिबेयमस्मि किम् ॥११॥
+54 +
निवसन्नन्तर एव निर्भयः ।
भवभूमिषु तासु तास्वहं
प्रभुमर्चेयमनर्गलक्रियः ॥८ ॥
भवदङ्घ्रिसरोरुहोदरे
परिलीनो गलितापरैषणः ।
अतिमात्रमधूपयोगतः
परितृप्तो विचरेयमिच्छ्या ॥९॥
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः ।
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥१०॥
भगवन्नितरानपेक्षिणा
नितरामेकरसेन चेतसा ।
सुलभं सकलोपशायिनं
प्रभुमातृप्ति पिबेयमस्मि किम् ॥११॥
+54 +