Proofing

This page has not been fully proofread.

A
 
-
 
साक्षात्कृतभवद्रूपप्रसृतामृततर्पिताः ।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥४ ॥
 
न तदा न सदा न चैकदे-
त्यपि सा यत्र न कालधीर्भवेत्।
तदिदं भवदीयदर्शनं
 
न च नित्यं न च कथ्यतेऽन्यथा ॥ ५ ॥
 
त्वद्विलोकनसमुत्कचेतसो
योगसिद्धिरियती सदास्तु मे ।
यद्विशेयमभिसन्धिमात्रत-
स्त्वत्सुधासदनमर्चनाय ते ॥ ६ ॥
 
निर्विकल्प भवदीयदर्शन-
 
प्राप्तिफुल्लमनसां महात्मनाम् ।
उल्लसन्ति विमलानि हेलया
 
चेष्टितानि च वचांसि च स्फुटम् ॥७॥
 
+53 +