Proofing

This page has not been fully proofread.

अथ रहस्यनिर्देशनाम द्वादशं स्तोत्रम्
 
सहकारि न किञ्चिदिष्यते
 
भवतो न प्रतिबन्धकं दृशि ।
भवतैव हि सर्वमाप्लुतं
कथमद्यापि तथापि नेक्षसे ॥ १ ॥
 
अपि भावगणादपीन्द्रिय-
प्रचयादप्यवबोधमध्यतः ।
प्रभवन्तमपि स्वतः सदा
परिपश्येयमपोढविश्वकम् ॥२॥
 
कथं ते जायेरन्कथमपि च ते दर्शनपथं
व्रजेयुः केनापि प्रकृतिमहताङ्केन खचिताः ।
तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः
पदार्थाद्यान्सृष्टिस्रवदमृतपूरैर्विकिरसि ॥३॥
 
+52 +