2026-04-23 06:06:48 by ambuda-bot
This page has not been fully proofread.
यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यवः
एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः ।
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे
भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्यजीवातवे ॥१३॥
हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे
दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् ।
तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमाः
जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः ॥१४॥
नमो मोहमहाध्वान्त-
ध्वंसनानन्यकर्मणे ।
सर्वप्रकाशातिशय-
प्रकाशायेन्दुलक्ष्मणे॥१५॥
+51 +>