Proofing

This page has not been fully proofread.

ये मनागपि भवच्चरणाब्जो-
द्भूतसौरभलवेन विमृष्टाः ।
तेषु विस्त्रमिव भाति समस्तं
भोगजातममरैरपि मृग्यम्॥६॥
 
हृदि ते न तु विद्यतेऽन्यदन्य-
द्वचने कर्मणि चान्यदेव शंभो ।
परमार्थसतोऽप्यनुग्रहो वा
यदि वा निग्रह एक एव कार्यः ॥ ७ ॥
 
मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोष-
भीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि ।
शम्भो तथा कलय शीघ्रमुपैमि येन
सर्वोत्तमां धुरमपोज्झितदुःखमार्गः॥८॥
 
त्वत्कर्णदेशमधिशय्य महार्घभाव-
माक्रन्दितानि मम तुच्छतराणि यान्ति ।
 
+49 +