Proofing

This page has not been fully proofread.

स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्त्वमेवेति ।
वस्त्वेव सिद्धिमेत्विति याञ्च तत्रापि याञ्चैव ॥२॥
 
त्रिभुवनाधिपतित्वमपीह य-
 
तृणमिव प्रतिभाति भवज्जुषः ।
किमिव तस्य फलं शुभकर्मणो
भवति नाथ भवत्स्मरणादृते ॥ ३ ॥
 
येन नैव भवतोऽस्ति विभिन्नं
किञ्चनापि, जगतां प्रभवश्च ।
त्वद्विजृम्भितमतोऽद्भुतकर्म-
स्वप्युदेति न तव स्तुतिबन्धः ॥४॥
 
त्वन्मयोऽस्मि भवदर्चननिष्ठः
 
सर्वदाहमिति चाप्यविरामम् ।
 
भावयन्नपि विभो स्वरसेन
 
स्वप्नगोऽपि न तथा किमिव स्याम् ॥५ ॥
 
48 +>
 
B