Proofing

This page has not been fully proofread.

त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि ।
नृत्यन्ति पवनोद्धूताः कार्पासपिचवो यथा ॥ १८ ॥
 
यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः ।
केन हीयेत जगतस्त्वदेकात्मतया प्रथा ॥ १९ ॥
 
वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि ।
त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥ २० ॥
 
महाप्रकाशवपुषि विस्पष्टे भवति स्थिते ।
सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम् ॥ २१ ॥
 
अविभागो भवानेव स्वरूपममृतं मम ।
तथापि मर्त्यधर्माणामहमेवैकमास्पदम् ॥२२॥
 
महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् ।
प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः ॥ २३॥
 
+46->