2026-04-23 06:06:47 by ambuda-bot
This page has not been fully proofread.
b
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः ।
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः ॥ १२ ॥
अपीत्वापि भवद्भक्तिसुधामनवलोक्य च ।
त्वामीश त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तवः॥१३॥
भृत्या वयं तव विभो तेन त्रिजगतां यथा ।
बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम्॥१४॥
परानन्दामृतमये दृष्टेऽपि जगदात्मनि ।
त्वयि स्पर्शरसेऽत्यन्ततरमुत्कण्ठितोऽस्मि ते ॥ १५ ॥
देव दुःखान्यशेषाणि यानि संसारिणामपि ।
धृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम्॥१६॥
सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये ।
सर्वथाप्यसतो नाथ युक्तास्य जगतः प्रथा ॥१७॥
+45 +