Proofing

This page has not been fully proofread.

1
 
बलिं यामस्तृतीयाय नेत्रायास्मै तव प्रभो ।
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे ॥६॥
 
तेनैव दृष्टोऽसि भवद्दर्शनाद्योऽतिहृष्यति ।
कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः ॥७॥
 
येषां प्रसन्नोऽसि विभो यैर्लब्धं हृदयं तव ।
आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥८ ॥
 
त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम् ।
ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ ९ ॥
 
आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् ।
त्वदूषणकथा येषां त्वदृते नोपपद्यते ॥१०॥
 
बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः ।
 
त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥ ११ ॥
 
+44 +