Proofing

This page has not been fully proofread.

परितः प्रसरच्छुद्ध-
त्वदालोकमयः कदा ।
 
स्यां यथेश न किञ्चिन्मे
 
मायाच्छायाबिलं भवेत् ॥ ११ ॥
 
आत्मसात्कृतनिःशेष-
मण्डलो निर्व्यपेक्षकः ।
कदा भवेयं भगवं-
 
स्त्वद्भक्तगणनायकः ॥१२॥
 
नाथ लोकाभिमानाना-
मपूर्वं त्वं निबन्धनम् ।
महाभिमानः कर्हि स्यां
त्वद्भक्तिरसपूरितः॥१३॥
 
अशेषविषयाशून्य-
श्रीसमाश्लेषसुस्थितः ।
 
+ 40 ->
 
,