Proofing

This page has not been fully proofread.

स्वसंवित्सारहृदया-
धिष्ठानाः सर्वदेवताः ।
 
कदा नाथ वशीकुर्यां
भवद्भक्तिप्रभावतः॥४॥
 
कदा मे स्याद्विभो भूरि
भक्तयानन्दरसोत्सवः ।
यदालोकसुखानन्दी
पृथङ्नामापि लप्स्यते ॥ ५ ॥
 
ईश्वरमभयमुदारं
पूर्णमकारणमपह्नुतात्मानम् ।
सहसाभिज्ञाय कदा
स्वामिजनं लज्जयिष्यामि ॥ ६ ॥
 
कदा कामपि तां नाथ
तव वल्लभतामियाम् ।
 
+38⭑>