2026-04-23 06:06:45 by ambuda-bot
This page has not been fully proofread.
अथ स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम्
कदा नवरसार्द्रार्द्र-
सम्भोगास्वादनोत्सुकम् ।
प्रवर्तेत विहायान्यत्
मम त्वत्स्पर्शने मनः ॥ १ ॥
त्वदेकरक्तस्त्वत्पाद-
पूजामात्रमहाधनः ।
कदा साक्षात्करिष्यामि
भवन्तमयमुत्सुकः॥२॥
गाढानुरागवशतो
निरपेक्षीभूतमानसोऽस्मि कदा ।
पटपटिति विघटिताखिल-
महार्गलस्त्वामुपैष्यामि ॥ ३ ॥
+37->
कदा नवरसार्द्रार्द्र-
सम्भोगास्वादनोत्सुकम् ।
प्रवर्तेत विहायान्यत्
मम त्वत्स्पर्शने मनः ॥ १ ॥
त्वदेकरक्तस्त्वत्पाद-
पूजामात्रमहाधनः ।
कदा साक्षात्करिष्यामि
भवन्तमयमुत्सुकः॥२॥
गाढानुरागवशतो
निरपेक्षीभूतमानसोऽस्मि कदा ।
पटपटिति विघटिताखिल-
महार्गलस्त्वामुपैष्यामि ॥ ३ ॥
+37->