Proofing

This page has not been fully proofread.

उपयान्तु विभो समस्तवस्तून्यपि
चिन्ताविषयं दृशः पदं च ।
मम दर्शनचिन्तनप्रकाशा-
मृतसाराणि परं परिस्फुरन्तु ॥११॥
 
परमेश्वर तेषु तेषु कृच्छ्रे-
 
ष्वपि नामोपनमत्स्वहं भवेयम् ।
न परं गतभीस्त्वदङ्गसङ्गा-
दुपजाताधिकसम्मदोऽपि यावत् ॥१२॥
 
भवदात्मनि विश्वमुम्भितं यद्
भवतैवापि बहिः प्रकाश्यते तत् ।
इति यद्वृढनिश्चयोपजुष्टं
 
तदिदानीं स्फुटमेव भासताम्॥१३॥
 
h
 
- 36 ->