2026-04-23 06:06:45 by ambuda-bot
This page has not been fully proofread.
व्रजतु सर्वमिदं द्वयवल्गितं
स्मृतिपथोपगमेऽप्यनुपाख्यताम्॥७॥
समुदियादपि तादृशतावका-
ननविलोकपरामृतसम्प्लवः।
मम घटेत यथा भवदद्वया-
प्रथनघोरदरीपरिपूरणम् ॥८ ॥
अपि कदाचन तावकसङ्गमा-
मृतकणाच्छुरणेन तनीयसा ।
सकललोकसुखेषु पराङ्मुखो
न भवितास्म्युभयच्युत एव किम् ॥ ९ ॥
सततमेव भवच्चरणाम्बुजा-
करचरस्य हि हंसवरस्य मे ।
उपरि मूलतलादपि चान्तरा-
दुपनमत्वज भक्तिमृणालिका ॥ १० ॥
✦ 35 +
स्मृतिपथोपगमेऽप्यनुपाख्यताम्॥७॥
समुदियादपि तादृशतावका-
ननविलोकपरामृतसम्प्लवः।
मम घटेत यथा भवदद्वया-
प्रथनघोरदरीपरिपूरणम् ॥८ ॥
अपि कदाचन तावकसङ्गमा-
मृतकणाच्छुरणेन तनीयसा ।
सकललोकसुखेषु पराङ्मुखो
न भवितास्म्युभयच्युत एव किम् ॥ ९ ॥
सततमेव भवच्चरणाम्बुजा-
करचरस्य हि हंसवरस्य मे ।
उपरि मूलतलादपि चान्तरा-
दुपनमत्वज भक्तिमृणालिका ॥ १० ॥
✦ 35 +