2026-04-23 06:06:45 by ambuda-bot
This page has not been fully proofread.
देहभूमिषु तथा मनसि त्वं
प्राणवर्त्मनि च भेदमुपेते ।
संविदः पथिषु तेषु च तेन
स्वात्मना मम भव स्फुटरूपः ॥४ ॥
निजनिजेषु पदेषु पतन्त्विमाः
करणवृत्तय उल्लसिता मम ।
क्षणमपीश मनागपि मैव भूत्
त्वदविभेदरसक्षतिसाहसम् ॥५॥
लघुमसृणसिताच्छशीतलं
भवदावेशवशेन भावयन्।
वपुरखिलपदार्थपद्धते-
र्व्यवहारानतिवर्तयेय तान् ॥६॥
विकसतु स्ववपुर्भवदात्मकं
समुपयान्तु जगन्ति ममाङ्गताम् ।
+34 ->
प्राणवर्त्मनि च भेदमुपेते ।
संविदः पथिषु तेषु च तेन
स्वात्मना मम भव स्फुटरूपः ॥४ ॥
निजनिजेषु पदेषु पतन्त्विमाः
करणवृत्तय उल्लसिता मम ।
क्षणमपीश मनागपि मैव भूत्
त्वदविभेदरसक्षतिसाहसम् ॥५॥
लघुमसृणसिताच्छशीतलं
भवदावेशवशेन भावयन्।
वपुरखिलपदार्थपद्धते-
र्व्यवहारानतिवर्तयेय तान् ॥६॥
विकसतु स्ववपुर्भवदात्मकं
समुपयान्तु जगन्ति ममाङ्गताम् ।
+34 ->