Proofing

This page has not been fully proofread.

अलौकिकोद्बलनाख्यमष्टमं स्तोत्रम्
 
यः प्रसादलव ईश्वरस्थितो
या च भक्तिरिव मामुपेयुषी ।
तौ परस्परसमन्वितौ कदा
तादृशे वपुषि रूढिमेष्यतः॥१॥
 
त्वत्प्रभुत्वपरिचर्वणजन्मा
कोऽप्युदेतु परितोषरसोऽन्तः ।
सर्वकालमिह मे परमस्तु
ज्ञानयोगमहिमादि विदूरे ॥ २ ॥
 
- लोकवद्भवतु मे विषयेषु
स्फीत एव भगवन्परितर्षः ।
केवलं तव शरीरतयैतान्
लोकयेयमहमस्तविकल्पः ॥३॥
 
✦ 33 +