Proofing

This page has not been fully proofread.

रागादिमयभवाण्डक-
 
लुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः ।
आप्याययतु रसैर्मां
 
- प्रवृद्धपक्षो यथा भवामि खगः ॥ ४ ॥
 
त्वच्चरणभावनामृत-
रससारास्वादनैपुणं लभताम् ।
चित्तमिदं निःशेषित-
विषयविषासङ्गवासनावधि मे ॥ ५ ॥
 
त्वद्भक्तितपनदीधिति-
 
संस्पर्शवशान्ममैष दूरतरम् ।
चेतोमणिर्विमुञ्चतु
 
रागादिक - तप्तवह्निकणान्॥६॥
 
+31->